Navagraha Stotram by Sri Vedavyasa



Hi Friends,
This is George Cherpanathan. 
For your personalized detailed prediction on your horoscope.
You can call me At +9199239 43448 ; +9185569 62926 for an appointment or you can mail your queries
Mail:    astrogeorgeindia@gmail.com ; georgeinpune@gmail.com
------------------------------------------------------------------------------------------------------------------Navagraha Stotram by Sri Vedavyasa


श्रीनवग्रह स्तोत्रम् (श्रीवेदव्यासविरचित)  

अस्य श्रीनवग्रहस्तोत्रमन्त्रस्य वेदव्यासऋषिः । अनुष्टुप् छन्दः ।
मम ग्रहानुकूल्यार्थे नवग्रहस्तोत्रजपे (पारायणे) विनियोगः ॥
जपाकुसुमसङ्काशं काश्यपेयं महद्युतिम्‌ ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्‌ ॥ १ ॥
दधिशङ्खतुषाराभं क्षीरोदार्णवसन्निभम्‌ ।
नमामि शशिनं देवं शम्भोर्मुकुटभूषणम्‌ ॥ २ ॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्‌ ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्‌ ॥ ३ ॥
प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्‌ ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्‌ ॥ ४ ॥
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्‌ ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्‌ ॥ ५ ॥
हिमकुन्दसमाभासं दैत्यानां परमं गुरुम्‌ ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्‌ ॥ ६ ॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्‌ ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्‌ ॥ ७ ॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्‌ ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्‌ ॥ ८ ॥
पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्‌ ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्‌ ॥ ९ ॥
इति व्यासमुखोत्पन्नं पठिष्यन्ति समाहितः ।
दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥ १० ॥
ऎश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ।
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम्‌ ॥ ११ ॥
गृहनक्षत्रपीडाश्च तस्कराग्निसमुद्‌भवाः ।
सर्वाश्चास्य विनश्यन्ति व्यासप्रोक्तान्न संशयः ॥ १२ ॥
॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं ॥

Comments

Popular posts from this blog

ASHWINI NAKSHATRA GENERAL RESULTS

Bharani Nakshatra Characteristics

Krittika Nakshatra Characteristics

Punarvasu Nakshatra Characteristics

ASHLESHA NAKSHATRA GENERAL RESULTS OF BEING BORN IN

HASTA NAKSHATRA GENERAL RESULTS OF BEING BORN IN

Aries / Mesh Horoscope 2019 Predictions Based on Hindu Astrology Moon Sign

Sagittarius / Dhanu Rashi 2019 Predictions Based on Hindu Astrology Moon Sign

Nakshatra names in various indian language