Posts

Showing posts from November, 2021

Rahu Strotram For Rahu SHanti

  * राहुपञ्चविंशतिनामस्तोत्रम * राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ।। 1 ।। रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिद:। ग्रहराजः सुधापायी राकातिथ्यभिलाषुक: ।। 2 । कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रय: । विधुन्तुदः सैंहिकेयो घोररूपो महाबल: ।। 3 ।। ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदर: । पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नर: ।। 4 ।। यः पठेन्महती पीडा तस्य नश्यति केवलम् । आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ।। 5 ।। ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । सततं पठते यस्तु जीवेद्वर्षशतं नर: ।। 6 ।।   श्री स्कन्द पुराणे श्री राहुपञ्च विंशति नाम स्तोत्रं सम्पूर्णम