Navagraha Stotram by Sri Vedavyasa
Hi Friends,
This is George Cherpanathan.
For your personalized detailed prediction on your horoscope.
You can call me At +9199239 43448 ; +9185569 62926 for an appointment or you can mail your queries
Mail: astrogeorgeindia@gmail.com ; georgeinpune@gmail.com
------------------------------------------------------------------------------------------------------------------Navagraha Stotram by Sri Vedavyasa

श्रीनवग्रह स्तोत्रम् (श्रीवेदव्यासविरचित)
अस्य श्रीनवग्रहस्तोत्रमन्त्रस्य वेदव्यासऋषिः । अनुष्टुप् छन्दः ।
मम ग्रहानुकूल्यार्थे नवग्रहस्तोत्रजपे (पारायणे) विनियोगः ॥

जपाकुसुमसङ्काशं काश्यपेयं महद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १ ॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसन्निभम् ।
नमामि शशिनं देवं शम्भोर्मुकुटभूषणम् ॥ २ ॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् ।
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ३ ॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४ ॥

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५ ॥

हिमकुन्दसमाभासं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६ ॥

नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम् ॥ ७ ॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ॥ ८ ॥

पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९ ॥

इति व्यासमुखोत्पन्नं पठिष्यन्ति समाहितः ।
दिवा वा यदि वा रात्रौ तेषां शान्तिर्भविष्यति ॥ १० ॥

ऎश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ।
नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ॥ ११ ॥

गृहनक्षत्रपीडाश्च तस्कराग्निसमुद्भवाः ।
सर्वाश्चास्य विनश्यन्ति व्यासप्रोक्तान्न संशयः ॥ १२ ॥

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं ॥
Comments
Post a Comment